पृष्ठम्:श्रीसुबोधिनी.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
जन्मप्रकरणम्अध्यायः


स्थितस्तदैव सद्यस्तत्क्षणमेव प्राकृतः शिशुर्बभूव अच्छिन्ननालोऽवस्थितः । नटानां रूपान्तरस्वीकारे दिदृक्षूणां परोक्षताऽपेक्ष्यते । अत्र तु तन्नापेक्ष्यत इत्याह ॥ पित्रोः सम्पश्यतोरि




हेतुभूता माया यथा जीवस्य स्वरूपं विस्मारयित्वा प्रापञ्चिकविषयासक्तिं जनयत्येवमियमपि भक्तानां स्वस्वरूपविस्मृतिं भगवदासक्तिं च जनयतीत्येतावद्धर्मसाम्येनास्यामपि मायाशब्दप्रयोगः। वस्तुतस्तु यथाऽन्ये लीलोपयोगिनो गोपीगोपादय आनन्दरूपा एवमियमपीति शापनायात्मपदम् । अन्यथा पुरुषोत्तमवाचिभगवत्पदाव्यवहितोक्त्यैव मायाया भगवदीयत्वप्राप्तेरात्मपदं व्यर्थं स्यात्। एवं सति, प्रकाशाश्रयवद्वा तेजस्त्वादिति न्यायेन भगवद्रूपत्वात्र कर्मधारयोऽप्यभिप्रेत इति शेयम् । तथाचेदं पदं सर्वत्रानुषज्ज्यते । तथाहि । अत्र लीलार्थ भगवता तो पितृत्वेनाङ्गीकृताविति भगवच्छक्त्यैव तयोस्तथाविर्भावः । अन्यथा निषेकजननाद्यभावेन तयोस्तथात्वमुच्यमानं बाधितं स्यात् । एतदेवाह ॥ आत्ममायया पित्रोरिति ॥ ननु एतद्वां दर्शितं रूपमिति वाक्यात् पूर्वरूपदर्शन एव भगवदिच्छाया उक्तत्वाद्, नान्यथा मद्भवं ज्ञानमिति वाक्यादर्शनस्यानन्यलभ्यत्वाच्चैतद्रूपदर्शनं कथमेतयोरत आह ॥ आत्ममायया सम्पश्यतोरिति ॥ एतेन चक्षुस्सामर्थ्येनादृश्यत्वं सूचितम् । अतिशयेनोपक्रान्तकार्योपयोगित्वं हि सम्यक्त्वम् । तेन पूर्वमीश्वरत्वेन जानतोीलोपयोगिमायाकरणकदर्शने सम्यक्त्वं स्वपुत्रत्वेनापि दर्शन ज्ञेयम् । तथैव लीलायाः करिष्यमाणत्वात् , पित्रोरितिवचनाञ्च। यद्वा लौकिकभावे सत्येव लीलोपपत्तिरिति दर्शने लीलोपयोगिमायाकरणकत्वनिरूपणेन पितृत्वोक्त्या च पुत्रत्वज्ञानं प्राप्तमेव । तञ्च न केवलं, किंत्वीश्वरत्वानुसन्धानसहितमिति तदेव सम्यक्त्वम् । युवां मां पुत्रभावेन ब्रह्मभावेन चेति भगवद्वचनात् । अथवोक्तरूपमायाकरणकदर्शने तद्विरुद्धाविषयकत्वमेव सम्यक्त्वम् । तथाच ब्रह्मभावस्य लीलाविरोधित्वेन तद्रहितं स्वस्मादुत्पन्नइत्येव ज्ञानं सम्यग्दर्शनम् । एवं सति तया पश्यतोस्तयोः परं प्राकृतः शिशुर्बभूवेति तदर्शनप्रकारकथनम् । वस्तुतस्तु भगवान् षड्गुणसम्पन्नः परमकाष्ठापन्नः शुद्धब्रह्मरूप एव यः शिशुः शिशुरूपः स सद्यस्तस्मिन्नेव क्षण आसी-