द्रक्ष्यामि तादृशम् *। एवंविधानं तद्भावैरत्यार्त्या दर्शने तयोः।।
मिथस्तथालापतश्च सर्वथेन्द्रियवृत्तयः । सर्वा हरिपरा आसन्
स एव सततं हृदि ॥ वियोगतापतप्तेऽभूत्तेनासां जीवनं तयोः *।
तेनैकादश वर्षाणि तथा कुर्वन् हरिर्बभौ ॥ युवां मामिति वाक्येन
चेममेव वरं ददौ *। अन्यथैतादृशो भावो न भवत्येव कुत्रचित्-॥
अतो माहात्म्यधीयुक्तस्नेहोऽभवदिति- प्रभुम् *। चिरात् प्राप्यापि
पितरौ सस्वजाते न शङ्कितौ ॥ ४५ ॥
एवमुक्त्वा रूपान्तरस्वीकरणं कृतवानित्याह-
श्रीशुक उवाच ॥
इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया ॥
पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः॥४६॥
इत्युक्त्वाऽऽसीदिति॥ तूष्णीम्भावोऽनुक्तसिद्धोऽपि
रूपवज्ज्ञानस्याऽपि तिरोभावप्रतिपादनार्थः । यथा रूपं
प्राकृतं स्वीकृतवान् एवं प्राकृतमेव ज्ञानं स्वीकृतवानिति। तथा
सति रूपान्तरस्वीकरणं सम्यगुत्पद्येत | नन्वेवं स्वविरुद्धधर्मं
कथं स्वीकृतवानित्याह हरिरिति।। यतः स सर्वदुःखहर्ता
स्वरूपमप्यन्यथा करिष्यतीत्याशङ्क्याह॥ भगवानिति।।
रूपज्ञानकार्ययोरपि तदा प्राकट्यं न स्यादित्याशङ्याह ।।
आत्ममाययेति ।। स्वस्यैव सर्वभवनसामर्थ्येन तथा
कृतवान् । ततः स्वेच्छया यदा तत्कार्यमायास्यतीति गीतोपदेशने
भीष्ममुक्तौ च तथैव तदा प्रकटीभविष्यति । अन्यदा तु
मातृप्रार्थनया रूपान्तरमेव प्रदर्शयिष्यतीति भावः । यदैव तूष्णीं
इत्युक्त्वासीद्धरिस्तूष्णीमित्यत्र आत्मपदेनेदमाकूतम् ॥ यथात्मा
अविकृतो नित्यः शुद्धः सदूपस्तथेयं मायाप्युक्तगुणविशिष्टा । अत
एव तादृशगुणविशिष्टलीलायाः प्रत्यायिका,नासत्पदार्थस्य । संसार