एवं स्वरूपगुणकार्यैश्चरित्रस्योत्कृष्टत्वमुत्का संबन्धतोऽपि तस्यो-
त्कर्षमाह ॥ उत्तमश्लोकोति ॥ उत्तमैः श्लोक्यन्ते ये गुणाः ।
उत्तमश्लोकस्य वा माहात्म्यख्यापकास्तेषामनुवादः कथनं यत्रेति
वा भागवतादिरूपाद् गतदोषाणामप्युत्कर्षो भगवता, भगवतोऽप्युत्कर्षज्ञापका गुणाः ।
अनुवादस्तेषामप्युत्कर्षहेतुरिति समभिव्याहारादवगम्यते ॥ पुमानिति ॥ ये पश्ववतारास्त्र्यवतारा-
स्तेऽत्र नाधिकारिणः । या अपि स्त्रियः श्रवणाद्यासक्तास्ता
अपि निमित्तवशादेव स्त्रियः,स्वभावतः पुरुषा एव । अतः पुमान्
कोऽपि न विरज्ज्येत । इत उत्कृष्टरसस्य वैराग्यजनकस्याभावात् ।
निवर्तमानानां दैत्यत्वमिति वक्तुं दैत्यलक्षणपुरःसरमाह ॥
विना पशुघ्नादिति ॥ ये हि पशुघातिनस्ते दैत्याः। दित्युपाख्याने
दैत्यानां दयाभावः स्वभावतः प्रतिपादितः । ते च
नित्यं भगवत्प्रत्यनीका एवेति न तद्दोषः परिहार्यः । दैत्यानां
च मुक्तिर्दोषस्यात्यन्तनिवृत्तिख्यापनाय । आविष्टानामपि मुक्त्य-
ऽभावे पुनरन्यत्राविश्य तथा कुयुरित्याधारभूतास्तु मुच्यन्त एव ।
अपुनरावृचि तम एव तेषां मुक्तिः । विरक्तं दृष्ट्वाऽन्यो विरक्तो
मा भवत्वित्येतदर्थमुक्तम् ॥ ४॥
एवं चरित्रं स्तुत्वा पुण्यद्वारमात्रतां वारयितुं भगवन्तं स्तौति-
पितामहा मे समरेऽमरञ्जयै-
देवव्रताद्यातिरथैस्तिमिङ्गिलैः॥
दुरत्ययं कौरवसैन्यसागरं
कृत्वाऽतरन् वत्सपदं स्म यत्प्लवाः ॥५॥
वैराग्यजनकस्येति ॥ गुणानुवादे वैराग्यजनकस्येत्यर्थः । दैत्यानां
मुक्तिस्वरूपमाहुः । अपुनरावृत्तीति ॥
पुण्यद्वारमात्रतामिति॥ अग्ने हि भगवान् साक्षादेव भक्तदुःखं निवारित-