अन्तःकरणदोषोपलक्षिका । निवृत्ताः सर्व एव दोषा येषामिति ।
नह्यल्पदोषवताऽपि भगवद्गुणा गातुं शक्याः । उप समीपे गीय-
मानाद् गमनप्रयासो निवारितः । श्रवणानन्दत्वेन च विषया-
ऽनुभवेऽपि प्रयासो निवारितः । बहुवचनेनावृत्त्या निर्वायदोष-
निवृत्तिरपि सूचिता । अनिवार्यास्त्वग्रे फलिष्स्यन्ति । स्वतन्त्र-
फलत्वादेव सर्वत्रागत्य गानम् । अनेन रसाभिनिवेशो ज्ञापितः ।
एवं वक्तुः फलरूपत्वं, श्रोतुर्दोषनिवारकत्वं चोक्तम् । चरित्रस्य
फलसाधकत्वमाह ॥ भवौषधादिति ॥ भवस्य संसारस्यौषधं
निवर्त्तकम् । अत उपकारस्मरणाद् गानम् । श्रोतुस्तु कर्मज्ञान-
भक्तिभ्य इदं परमं साधनं मोक्षस्य । औषधं हि रोगनिवृत्तौ
न पुरुषव्यापारमपेक्षतेऽन्तःप्रवेशनातिरिक्तम् । अत्र चान्तःप्रवेशः
श्रवणद्वारा । अतः फलत्वसाधनत्वे एव यद्यपि वक्तव्ये
तथापि श्रवणस्य प्रविष्टग्राहकमनसश्च यदि सुखकरं न
भवेत् तदा पूर्वोक्तं न संभवतीति जघन्यत्वेऽपि विषयत्वेन
पश्चानिरूपयति ॥ श्रोत्रमनोऽभिरामादिति ॥ श्रोत्रं मनचाभितो
| रमयतीति प्रविष्टमेव तथा करोतीति ज्ञातव्यम् । अनिवर्त्यदोषेण
चाऽप्रवेशः । उपेत्यऽप्राप्तिदोषो निवारितः । तृष्णाभावेन धना-
ऽर्पणदोषः।गानेन शब्दमाधुर्यम् । जन्ममरणदुःखस्य बहुधानुभूत-
त्वात्तन्निवारकमौषधमत्यादरेण सेव्यम् । कर्णाऽकटुत्वं परिणाम-
मनोहरत्वं चोक्तम् । परलोकमभिव्याप्य रमयतीत्यभिशब्दार्थः ॥
श्रवणानन्दत्वेनेति गानतात्पर्यम् ॥ अनिवार्या इति।भगवद्विषय-
कत्वेन निवारयितुमयोग्याः कामादय इत्यर्थः ॥ तथापि श्रवणस्ये-
ति ॥आद्या प्रवृत्तिर्विषयत्वेनैवेति तथा प्रवृत्तस्याखिलपुरुषार्थसाधके-
ऽर्थे प्रवृत्तिप्रयोजके विषयान्तरसमानधर्मवत्त्वं जघन्यमेवेति तथो-
क्तम् ॥ अनिर्वर्त्यदोषेण चेति ॥ सहजासुरत्वेनेत्यर्थः॥