पृष्ठम्:श्रीसुबोधिनी.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


न बद्ध्यते । अन्ये तु बद्ध्यन्त इति निर्धारितत्वाद्भगवद्भावेनाऽन्येऽपि चेद्भावितास्ते कृतार्था भवन्तीति भगवदवतारः । एवमवतीर्य यानि कृतवान्, इच्छयापि तत्रत्यानां मुक्तिदानसामर्थ्ये विद्यमानेऽपि यत्कार्याणि कृतवाँस्तदग्रिमप्रयोजनार्थमेवेत्यवसीयते । अत एव व्यासावतारः । ज्ञातानि तान्युपयुज्यन्त इति । एतज्ज्ञापयति ॥ विश्वात्मेति ॥ भगवानेव स्वतन्त्रतया यदि हितं न कुर्यात्तदान्योन्याश्रयः प्रसज्ज्येत । स्वतःकरणे विश्वात्मत्वं हेतुः । तानि सर्वाण्येव पूर्ववन्नो वद । यद्यपि, जातो गतः पितृगृहादित्यत्र द्वितीयस्कन्धादिषु च चरित्रमुक्तं, तथापि विस्तरेण कथयेत्याह ॥ विस्तरादिति ॥३॥

 एवं भगवद्वीर्याणां चरित्रस्य च प्रश्नमुक्त्वा चरित्रस्य भगवतश्च माहात्म्यमाह त्रिभिः । भगवतो माहात्म्यं द्विविधम् । अदृष्टदृष्टभेदेन । तत्र प्रथमं चरित्रमाहात्म्यमाह--


 निवृत्ततर्षैरुपगीयमानाद्
 भवौषधाच्छ्रोत्रमनोऽभिरामात् ॥
 क उत्तमश्लोकगुणानुवादात्
 पुमान् विरज्येत विना पशुघ्नात् ॥ ४ ॥

 निवृत्तेति ॥ स्वरूपात् फलतश्चापि महापुरुषयोगतः * विषयोत्तमतश्चापि चरित्रं परमं मतम् ॥ १॥ मुक्तस्य कार्यमेतद्धि- मुमुक्षोर्भवनाशकम् ॥ अनिन्द्यविषयश्चायं विरक्तोऽस्मिन् पतेद् ध्रुवम् ॥ २॥ आत्मघाती कर्मजडो निन्दितार्थरतः सदा ॥ पशुस्त्रीव्यतिरिक्तश्चेद्विरक्तो न ततः पृथक् ॥ ३॥ प्रथमतः फलरूपं चरित्रमेतदित्याह ।। निवृत्ता तर्षा तृड् येषाम् । तृष्णा अग्रिमप्रयोजनार्थमिति ॥ अनवतारसामयिकजीवोद्धारार्थमित्यर्थः ॥