पृष्ठम्:श्रीसुबोधिनी.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


र्भावे सर्वगता गुणाः प्रकटीभवन्तीति प्रकटीभावे हेतुरुक्तः। एवं सन्दर्भे भगवतोऽवतारत्रयमप्युक्तम् । सर्वधर्मसंरक्षकोऽनिरुद्धः, सर्वमुक्तिदाता अज्ञाननिवृत्तिद्वारा सङ्कर्षणो, देवक्यां प्रद्युम्नो, नन्दगृहे वासुदेव इति सर्वरूपेणाप्याविर्भूतो भगवानित्युक्तम् । निमित्तत्वं च भगवत एव दोषाभावे गुणप्राकट्येच । ननु तादृशोऽपि कालः सहजः कश्चिदस्तीति एकमेव चेन्निमित्तमुच्येत तस्मिन् समयेऽन्योऽप्युत्पन्नो भगवत्सदृशः स्यात् । अतो भगवत्प्रादुर्भाव एव गुणमाकव्ये निमित्तं, भगवत्प्रादुर्भावार्थमेव गुणप्राकव्यं चेति निरूपितम् । एवं सर्वांशो भगवान प्रादुर्भूत इत्याह ॥ देवक्यामिति ।। देवक्यां विष्णुः प्रादुरासीत् । देवानां समूहो देवकी । सम्पूर्णे देवसमूहे पूर्णसत्त्वं भवति । तच्च सत्वं भगवदाविर्भावे आधारत्वेन निमित्तं भवति । यथा अग्नावरणिः । न केवलमव्यापाराविष्टा निमित्तमरणिरपि भवतीति मथनस्थानीयं किचिन्निरूपणीयम् । तदाह ॥ विष्णुरूपिण्यामिति ॥ विष्णो रूपम् अस्यामस्तीति विष्णुरूपिणी । भगवद्रूपमेव तत्र विद्यमानं भगवन्तं प्रकटीकृतवन्न तु प्रयत्नः प्रसूतिवातादिर्वा तत्र निमित्तमिति तन्निराकरणार्थमुक्तमिदमेव रूपमिति सिद्धान्तः । देवक्यां विद्यमान आधिदैविक इति केचित् । तदा विष्णुरूपायामित्यर्थों भवति । पाठान्तरेऽपि देवो विष्णुरेव विष्णुर्व्यापकः पुरुषोत्तमो यो वेदान्ते ब्रह्मशब्देनोच्यते । तस्य सर्वत्रैव विद्यमानत्वात् प्रादुभावो भाक्त इत्याशङ्क्या सर्वव्यापकत्वेऽपि यः सर्वान्तरः सर्वान्तर्यामी सोऽन्तःस्थितो बहिरागत इति वक्तुं, सर्वेषां गुहा हृदयाकाशं तस्मिन्नासमन्ताच्छेतेऽधितिष्ठतीति गुहाशय इत्युक्तम् । अनेन सर्वेषां भजनार्थं स्वयं हृदि स्थित्वा तत्पराः कृताऽर्था भविष्यन्तीति ज्ञापयितुं वेदांश्चकार । स इदानीमत्रैव प्रकटी-