पृष्ठम्:श्रीसुबोधिनी.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
जन्मप्रकरणम्अध्यायः


यां द्वैरूप्येऽपि सादृश्यमधिकमिति च जलधरपदेन सूचितम् । सजलमेघानामेव तडित्सहभावदर्शनात् । अपि च, समुद्रः स्वगाम्भीर्यगुणं प्रभुरङ्गीकृतवानिति गर्वेण गर्जति । तस्य तं गर्वमपहन्तुं धर्मापेक्षया स्वरूपसादृश्यं स्वस्याधिकमिति ज्ञापयितुमनुसागरमित्युक्तम् । देवा ज्ञात्वैव पुष्पवृष्टिं मुमुचुः, मुनयश्च । शब्दवला मुनयः । अर्थबला देवाः । उभये प्रामाणिकाः स्वसेवामभिज्ञतां च ज्ञापयितुं शुभसूचनार्थ सुमनांसि पुष्पाणि हर्षेण अन्विता मुमुचुः । सर्वथा मेघानामभावे विपरीतः कालधर्मोऽशुभकर इति तेषामपि कार्यमाह ।। जलधरा मन्दं मन्दं सागरनिकटे जगर्ज्जुः ॥ ७॥ ॥ एवं देशकालयोस्तत्रत्यानाम् ऋतोश्च गुणानुक्त्वा रात्र्या स्तन्मुहूर्तस्य च गुणानाह--


 निशीथे तमउदभूते जायमाने जनार्दने ।।
 देवक्यां विष्णुरूपिण्यां विष्णुः सर्वगुहाशयः ॥
 आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥८॥


 निशीथ इति ॥ अर्द्धरात्रं निशीथं पञ्चचत्वारिंशत्षट्चत्वारिंशद्धटिकाद्वयम् । तस्य दोषाभावः, तमउद्भूत इति ॥ तम उद्भूतम् उर्ध्वं भूतं निवृत्तं यस्मिन् । यो हि निर्गच्छति स ऊर्ध्वो भवति । जायमाने जनार्द्दने सतीति गुणा उक्ताः । यावता गुणेन जनानामविद्यामर्द्दयतीति सर्वाविद्यानाशकः प्रादुर्भवति तादृशगुणवान् निशीथ इत्यर्थः । भगवज्जननस्य मूलभूतगुणानां प्राकट्ये भौतिकानां च प्राकट्ये निमित्तत्वं वक्तुं जायमाने अजन इति मध्ये निरूपितम् । अजनत्वान्न कालनिमित्तत्वं, किन्तु कालस्य तादृशगुणवत्त्वे अजन एव निमित्तम् । | अन्ते च पुनर्जायमाने जनार्दन इति सर्वाविद्यानाशनार्थ प्रादु-