पृष्ठम्:श्रीसुबोधिनी.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः ॥
 मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७॥


 अथ च मुनयः सुष्टु निर्दष्टानि मनांसि पुरुषोत्तमसम्बन्धाभावात् समाधितो निष्कास्य तदाविर्भावस्थले मुमुचुर्वृषुरित्यर्थः । देवास्तु पुष्पाणीत्यर्थः । अत एव पुष्पादिपदानि विहायोभयार्थकत्वात् सुमनःपदमुक्तम् । सुमनस इति स्त्रीलिङ्गप्रयोगाभावश्च । पुष्पवाचकस्यैव स्त्रीलिङ्गनिर्देशात् । अन्यथा भुवि स्थितानां मुनीनां नभसि स्थितैर्देवैः सह वृष्टिकर्तृत्वं कथमुपपद्येत । मनसः पुष्पतया कथनमुज्ज्वलत्वसंकोचविकासादिधर्मवत्त्वादविरुद्धम्॥ मुदान्विता इति, तत्रानन्दावेशलक्षणमकरन्दसम्पत्तिः सूचिता। तदा सुमनोवृष्टयपेक्षया जलवृष्टिरल्पा नाद्भुता चेति मत्वा मेघा न ववृषुः, किन्तु तच्च गर्जितं नास्तीति तावत्कार्यं कृतवन्त इत्याह ।। मन्दं मन्दं जलधरा जगर्जुरिति ।। मेघानामुच्चैगजेनं पूर्वोक्तवाद्यगीतादिश्रवणप्रतिबन्धकतां भजतीति तदभावाय मन्दं मन्दमित्युक्तम् । अन्यथा तद्वैयर्थ्यापत्तेः ।। तथाच युगपज्जायमानान्यपि वाद्यगीतगर्जितान्यन्योऽन्यमिश्रितानि सर्वैरश्रूयन्तेति भावः । किञ्च, जगर्ज्जुरेव, न तु ववृषुः । यतो जलधरा, न तु जलमुचः । अत्राऽयमाशयः । मेघास्तु भगवत्प्राकट्यात् पूर्वं लोके नीलरूपमश्लाघ्यं मत्वा स्वस्य तादृशत्वेन तदभावाय जलमुचो जाताः । इदानीं स्वसारूप्यमङ्गीकृत्य भगवान् प्रकट इति कवयोऽग्रे स्वस्योपमां दास्यन्ति,तेन स्वजन्मसाफल्यं भविष्यतीति हर्षवशादात्मनो नीलरूपस्यैवाभीष्टत्वेन तद्धेतुभूतं च जलधारणम् । अन्यथा शुभ्रता स्यादतो जलधरा जाताः । यद्यपि मरकतेन्दीवरादीनामपि सारूप्यमस्ति, तथाऽपि स्वस्य विद्युत्सहभावात् कामिनीतनुकनकलतालङ्करणदशा-