पिहिता अपि प्रज्वलिता जाता इत्यर्थः ॥ ४ ॥
मनांस्यासन प्रसन्नानि साधूनामसुरद्रुहाम् ॥
जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥५॥
सात्त्विकाहङ्कारकार्यं मन इति भौतिकगुणसमये मनसोऽपि
गुणा उच्यन्ते । यदा सत्त्वमारूढं भवति तदा मनांसि प्रसन्नानि
भवन्ति । मनसो दैत्यसम्बन्धित्वमपि वर्त्तंत इति तन्निवृत्यर्थं
साधूनामित्युक्तम् । इदं साधुपदं दैत्यव्यतिरिक्तमात्रपरमिति
ज्ञापयितुमसुरद्रुहामित्युक्तम् । साधुपदं च व्यवहारे सन्मार्गवर्तित्वाय ।
इयं व्यवस्था स्थूलकालेऽपीति । निकटकाले विशेषमाह ॥
जायमानेऽजन इति ॥ अजने जायमाने दिवि दुन्दुभयो नेदुः ॥
तस्मिन्निति ।। तन्निकटे यथा वसुदेवादयः शृण्वन्ति ।
आकाशस्य गुणा नृत्यवादित्राणि दुन्दुभिर्मङ्गलवाद्यम् । स्वयमेव
नेदुर्न तु कैश्चिद् वादिताः ॥ ५॥
जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः॥
विद्याधर्यश्च ननृतुरप्सरोभिः समं मुदा ॥६॥
किन्नरगन्धर्वा अपि स्वत एवोल्लसितहृदया जगुः । अज्ञा-
त्वैवेति ज्ञातव्यम् । अन्यथा माहात्म्यप्रतिपादकं न स्यात् ।
सिद्धाश्चारणाश्च तुष्टुवुः । अकस्मादेव स्तोत्रं सत्काले कृतवन्तः।
ते हि वैतालिकमायाः । विद्याधरा नर्त्तकाः, चकाराद्विद्याधर्यश्च
ननृतुः । अप्सरोभिः सममित्यानन्दावेशेनैव नृत्यं, न तु शास्त्रीय-
म् । मुदा आनन्देन न केनचित् प्रेरिताः । स्वत एवानन्दाऽऽविर्भूता
अकस्मात्तस्मिन् समये स्त्रियः पुरुषाश्च ननृतुः । अनेन ये केचन यस्यां
विद्यायां रतास्ते अकस्मान्मुदा तत्तत्कार्यं कृतवन्त इत्यर्थः ॥ ६॥