पृष्ठम्:श्रीसुबोधिनी.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 एवं देशकालयोर्गुणानुत्का भौतिकानां तत्तद्भूतप्रधानानां गुणानाह । तत्र प्रथममपामाह-


 नद्यः प्रसन्नसलिला हृदा जलरुहश्रियः॥
 द्विजालिकुलसन्नादस्तबका वनराजयः ॥३॥


 नद्यः प्रसन्नस लिला इति ॥ यद्यप्यापो बहुविधा एकोनविंशतिभेदास्तथाप्युभयविधा एव, स्थावरा वहन्त्यो वा । अव उभयानां गुणा उच्यन्ते । नदीषु कालवशात् पङ्किलं जलं भवति । आधिदैविककालवशात् कालनियन्तुर्भगवद्वशाद्वा स निवर्तते । अतः कालनियन्तरि भगवति समागते नद्यः प्रसन्नं सलिलं यासां तादृश्यो जाताः। दोषनिवृत्तिपूर्वकः स्वाभाविकगुण उक्तः । हृदाः स्थावराः । जलरुहाणां कमलानां श्रीर्येषु जलस्य योऽयं सारांशः स कमलादिः । अतोऽसाधारणा गुणा अनेनोक्ताः । भूमेर्गुणान् वक्तुं गन्धस्तस्या मुख्यो गुण इति । स च पुष्पादिषु प्रसिद्ध इति गन्धरसकार्यकथनपूर्वकं पुष्पादिसम्पत्तियुक्तां वनरूपां भूमिमाह ॥ द्विजालीति ॥ द्विजाः पक्षिणः। अलयो भ्रमराः। उभयेषां कुलानि । तेषां संनादयुक्ताः स्तबकाः पुष्पगुच्छा यासां तादृश्यो वनराजयो वनपङ्क्तयो जाताः ॥३॥


 ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः॥
 अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥


 ववौ वायुरिति ॥ सुखस्पर्शो वायोर्गुणः, गन्धं च भूमेवहतीति शुभकार्यं पुण्यं गन्धं वहतीति पुण्यगन्धवहः शुचिर्गङ्गादिजलसम्बन्धी, दोषरहितो वा, यो वा वायुः शुभसूचकः स शुचिः । अग्नयो लौकिका वैदिकाश्च ॥ द्विजातीनामिति ॥ निषिद्धेतरः । तत्राप्यशुभकार्यस्थव्यावृत्त्यर्थं शान्तास्तस्मिन् समये समिन्धत सम्यग् दीप्सा जाताः । तस्मिन् समये शुभा अग्नयः