पृष्ठम्:श्रीसुबोधिनी.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
जन्मप्रकरणम्अध्यायः


जन्मरहित एवेति ज्ञापयितुम् अजनाज्जन्म यस्य तस्य नक्षत्रमित्युक्तम् । ततो वै ते सर्वान् रोहान् रोहन तद्रोहिण्यै रोहिणित्वमिति श्रुतेः । तर्ह्येवाजन्मर्क्षं जातं, तदैव सर्वगुणोपेतः कालो जात इति सम्बन्धः। अनेन नक्षत्रारम्भे जन्मेतिसूचितम् । तस्य नक्षत्रस्य सर्वेषां सहायवर्त्तिनामानुगुण्यमाह ॥ शान्तर्क्षग्रहतारकमिति ॥ शान्तान्यन्यानि ऋक्षाणि ग्रहास्ताराश्च यस्य । अश्विन्यादीनि नक्षत्राणि, आदित्यादयो ग्रहाः, अन्यानि च नक्षत्राणि ताराः। यद्यपि तेषां ज्योतिःशास्त्रे फलं नोक्तं, तथाप्यस्तीति शान्तत्वमुक्तम् । अनेन स्वाभाविका आनुषङ्गिकाश्च गुणा निर्दोषाः कालगता निरूपिताः ॥१॥

 देशस्त्रिविधः । अधः,उपरि, परितश्चेति । तत्र परितो दिशः उपरि द्यौरधो भूमिः । त्रयाणां दोषाभावपूर्वकं गुणा उच्यन्ते । तत्र दिशो देवतात्मिका भूतात्मिकाश्च भवन्ति । तत्र मेघादीनां दूरदर्शनलक्षणप्रसादो दिशां भवति । देवताप्रसादस्तु सर्वसाधकः । अतो ज्ञानं सर्वमेव च फलं सिद्ध्यत्विति उभयविधदिशां प्रसाद उच्यते--


 दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ॥
 मही मङ्गलभूयिष्ठपुरग्रामबजाकरा ॥२॥


 दिशः प्रसेदुरिति ॥ निर्मला उडुगणा यत्र । वर्षाकाले मेघाः सहजाः । तैः कृत्वोडुगणानां प्रकाशो न दृश्यते इति नैर्मल्यमुच्यते ॥ उदयेति ॥ उदयकालेऽपि मेघानामभाव उदयो दर्शनमेव वा ॥ मही भूमिर्मङ्गलभूयिष्ठा ।। सर्वत्रैव विवाहपुत्रजन्माद्युत्सवास्तस्मिन् समयेऽजायन्त इति ।। पुरं नगरं ग्रामाः साधारणाः । व्रजो गवां स्थानम् । आकरा रत्नायुत्पत्तिस्थानानि । सर्वाण्येव मङ्गलभूयिष्ठानि यस्याम् ॥ २॥