निवारणाय उभयग्रहणम् । रात्रिन्दिवं सर्वेषां सर्वान्धकारनि-
वारणकर्तृत्वाद्वंशविस्तारकथनं युक्तमिति पूर्वोक्ताभिप्रायं च वदन्
स्वस्य श्रोतृत्वं च समर्थयति । उभयवंश्यानां राज्ञां चरित्रमपि
कथितमिति उत्पत्त्यैव भक्ताः । चरित्रमपि तेषामन्येषां
भक्तिजनकमित्यम्बरीपादेश्वरित्रस्य तथात्वात् पृथगनुवादः । अत्र
पष्ठी जननसंबन्धप्रतिपादिका । चकारात्तत्र भगवतोऽपि चरित्रं
प्रतिपादितमित्युक्तम् । विशेषतोभिप्रायेण कथने श्रवणे च
हेतुः ॥ परमाद्भुतमिति ।। परमेण भगवता परमया भक्त्या वा ॥१॥
यदोः पितुरादेशोल्लङ्घनादधर्मपरत्वेन कथनायुक्तत्वमाशङ्ख्य जराया भगवद्भजनपतिबन्धकत्वान्मुख्यपितुः सेवार्थं गौणपितुराज्ञोल्लङ्घनं युक्तमित्याह-
यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ॥
तत्रांशेनावतीर्णस्य विष्णोर्याणि शंस नः ॥२॥
यदोश्चेति॥धर्मशीलस्येति पृथगनुवादे हेतुः। जरया च धर्मनाशः। शीलपदेन पितुर्धर्माज्ञानमुक्तम् । पुत्रवयसा तन्मातृसंबन्धस्यात्य- न्तमयुक्तत्वात् । अतो भगवदवतारात् पूर्वमेव पूरोर्वंशो निवर्तितः। अन्यथा तैः सह भगवत्सम्बन्धोऽपि न युक्तः स्यात् । भीष्मस्य वस्ववतारत्वात् सम्बन्धोऽपि । दोषस्तु तत्कृत एव । अग्रे च तेषां तिमिङ्गिलत्वं वक्ष्यति । अतो यदुः स्वभावत एव धर्मरूपः। अत एव तद्वंशस्य च नितरां कथनमुक्तम् । मननशीला मुनयः। तत्रापि प्राप्तज्ञानाः सन्तः । तादृशा अपि भक्ता अतिशयिताः । अनुवादप्रश्नयोर्मध्ये मुनिसत्तमेति सम्बोधनम् उभयहेतुत्वार्थम् । एवमनूध भगवतो वीर्याणि चरित्रं च पृच्छति सार्द्धेन । तत्रांशेनेति ॥ तत्र वंशे विष्णोर्व्यापकस्य सर्वत्र उद्गमने प्रयोजना-