हेतुश्च त्रिविधो ह्यत्र गुणा भक्ताहितप्रदाः॥
कंसादेः कालतोऽज्ञानात् त्रिधा दुःखं तु तद्गतम् ॥ २२ ॥
भूमिर्माता तथा चान्ये दुःखभाजो हरिप्रियाः ॥
यथायोग्यं दुःखमेपामत्रैवेति निरूप्यते ॥ २३ ॥
त्रयं भगवता शक्यं दूरीकर्तुमितीर्यते ।।
प्रश्नोऽप्यत्राधिकः प्रोक्तः स्कन्धद्वितयवर्त्तनः ।। २४ ।।
अनुवादः स्तुतिः प्रश्ने भक्तत्वज्ञापकावुभौ ॥
अन्यथा ह्यतिगुप्तार्थ श्रीशुको वर्णयेत् कथम् ॥ २५ ॥
अज्ञानमन्यथा ज्ञानं कृष्णगं विनिवार्यते ॥
प्राणनत्वं कथायाश्च दयासिद्ध्यै शुकस्य हि ॥
एवं प्रश्नो द्वादशभिः समतो गुणदोषगः ॥ २६ ॥
पूर्वस्कन्धे भक्तेः प्रतिपादितत्वादुत्कण्ठापूर्वकमुक्तानुवाद- माह सार्दैन--- श्रीराजोवाच ।।
कथितो बंशविस्तारो भवता सोमसूर्ययोः ।।
राज्ञां चोभयवंश्यानां चरितं परमादभुतम् ॥१॥
कथितो वंशविस्तार इति ॥ भक्तत्वादेव तत्रत्यानां वंशयोर्विस्तार उक्तः । अभ्यर्हितत्वात सोमस्य पूर्वनिपातः । वंशविस्तारप्रश्ने भ्रमं वारयति ।। विस्तार इति ॥ अन्यतमकथन- क्रमो न विवक्षित इति ज्ञेयम् । हेतोस्पैविध्ये तात्पर्यमाहुः ॥ गुणा इति ॥ सत्त्वादय इत्यर्थः ॥ तद्गतम् ॥ भक्तगतमित्यर्थः । द्वादशभिः प्रश्ने हेतुमाहुः॥ गुणदोषग इति॥ षड्गुणाः । लोके दोपत्वेन प्रसिद्धा धर्माश्च षड् देशान्तरगता गर्भमातुलमारणादयः । उभयविषयक- त्वात्तस्य तथात्वमित्यर्थः । गुणवाक्यसाम्यं दोषवाक्यानामयुक्तमि- त्याशङ्कायामाहुः ॥ समत इति ॥ यथा गुणा उत्तमास्तथा लोके दोषा अप्युत्कटा इत्युभयोः साम्येन राज्ञा प्रश्नः कृत इति तथेत्यर्थः ॥ समत इति भावप्रधानः ॥