राज्यं दत्तवान्न तु स्वयं गृहीतवानिति ॥ ३९ ॥ ॥॥
एवं नमस्कारान्तं भगवान् स्तुतः, कंसादिवधस्त्वप्रयोजकः, तस्मान्न विशेषेण गणितः । प्रसङ्गात्तच्चरित्रं फलरूपं निरूपयन् देवकीसान्त्वनमप्याह-
दिष्टयाम्ब ते कुक्षिगतः परः पुमान्
अंशेन साक्षाद् भगवान् भवाय नः ॥
मा भूदु भयं भोजपतेर्मुमूर्षो-
गोप्ता यदूनां भविता तवात्मजः ॥ ४० ॥
दिष्टयाम्बोति ।। हे अम्ब मातः । सर्वात्मकस्य
भगवतो माता मातैव । नृसिंहादिवदकस्मादेवाविर्भावो युक्तः ।
यत्ते कुक्षिं गत एतद् दिष्टया ॥ उक्तमर्थमुपपादयितुमाह ॥
परः पुमानिति ॥ पुरुषोत्तम इत्यर्थः । अंशेन तव कुक्ष्येकदेशेन
प्रद्युम्नांशेन पुत्रो वा। साक्षाद्भगवानिति ज्ञानक्रियांशव्यावृत्त्यर्थम्।
तवोदरे त्वदर्थं । नागतः, किन्तु भवाय नोऽस्माकमेवोद्भवाय
तव कुक्षिं गतः । तर्हि मम का गतिरितिचेत्तत्राह । तव भयं
मा भून्न भविष्यति । आशंसायां प्रथमार्थे, छन्दासि लुङ्लङ्लिट
इति लङथै लुङ् ।
माङि लुङिति सूत्रादपि तथा ॥ भोजपतेः कंसात् ॥ स हि
वचनैनेव भीषयति । न तु क्रियां कर्तुं शक्तः । वचनं च तस्य
उपेक्ष्यम् । यतोऽयं मुमूर्षुः । मुमूर्षूणां विक्लवा गिरो भवन्ति ।
ननु वचनमात्रेणैव कथं भयनिवृत्तिस्तत्राह ॥ गोप्ता यदूनां भविता
तवाऽऽत्मज इति ॥ तव रक्षायां कः सन्देहः । यदूनां सर्वेषामेव
तवात्मजो गोप्ता भविष्यति । अनेन स्वरूपकार्यमानुषङ्गिकं च
कार्यमुक्तम् ॥ ४०॥
उपसंहरति
१४