धारणं, तथेहापि स्वस्वरूपाऽमृतदानार्थमेव गोवर्द्धनोद्धरणम् ।
तेन रक्षां च कृतवान् । नृसिंहस्तु भक्तपितरमपि पूर्वभक्तमपि
भक्तरक्षार्थमकस्मात्प्रादुर्भूय मारितवान् । लक्ष्म्यादीनामप्यगम्यो
दैत्यत्वेऽपि भक्तमात्रगम्य इत्यपि ज्ञापितवान् । इहापि
पाण्डवरक्षार्थ तत्पितामहादीन् भक्तानप्यासुरावेशिनो मारितवान् ,
तथैव कंसादीनपि । वनवासे पार्थरक्षार्थमकस्मादाविर्भूय
शिष्टशाकान्नं भक्षयित्वा सर्वं समाहितवान् । वराहस्तु यदुद्धारार्थ
प्रवृत्तस्तत्रैतादृक्पक्षपातवान् येन तन्मात्रविशेषगुणग्राहकन्द्रियस्यैवाधिष्ठाने
प्रकटोऽभवन्न तु नृसिंहादिवत् । इहापि
पाण्डवरक्षार्थमागच्छंस्तन्मात्रगुणग्राहिविदुरगेह एव स्थितोऽभवन्न
त्वऽन्यत्र । तथा वूजस्थानुद्धर्तुं तन्मात्रसम्बन्धिान स्थले स्वयमाविर्भूय
तथा कृतवान् , न त्वन्यत्र स्थितः । एवमेव वैदर्भ्युद्धारं कुर्वन्
हिरण्याक्षवन्मध्येमार्गं प्रतिबन्धकर्तारं रुक्मिणमुपेत्यैव स्वकार्यं कृतवान्न
तु तदैव हतवानग्रे च तथा कृतवान् । हंसस्तु तत्त्वमुपदिश्य
ब्रह्मादिविषादहन्ता । इहापि वेदमर्यादाविरोधिगुरुवधादोर्विमुखस्य
तच्चिन्ताविषादं तत्त्वोपदेशेन हृतवान्। अन्यथा भूभारहरणं,न
स्यात् । राजन्यस्तु मज्जनसाधनं तारकं कृत्वैकभक्तार्थमनेकान्
दैत्यावधीत् । तथेहापि भूनिमित्तमनेके मारणीयाः। एतेनैकस्या
भुवो निमित्तमनेकान् कथं वधिष्य इति शङ्काऽपास्ता ।
द्वेषादिभावस्यापि तारकत्वं स्पष्टम् । विप्रस्तु ब्रह्मवृत्तिरपि घोरं
क्षात्रमूरीकृत्यअसुरराजन्यानवधीत् । इहापि ब्रह्मत्वेन समत्वेऽपि
दैत्यवधः कार्यएव । विबुधस्तु मातृप्रार्थनयाऽऽविर्भूय
ब्रह्माद्यशक्यं त्रिभुवनहरणं वाङ्मात्रेण कृतवान् । एवमत्र
वृकासुरवधे स्पष्टम् । देवकीप्रार्थनयाविर्भूय ब्रह्मादिदुरापं
स्वानन्दं यदुभ्यो दत्तवान् राज्यलिप्सुं कंसं मारयित्वोग्रसेनाय-
पृष्ठम्:श्रीसुबोधिनी.pdf/११४
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे