पृष्ठम्:श्रीसुबोधिनी.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
जन्मप्रकरणम्अध्यायः


देवत्रैलोक्यधर्मरक्षाभूमेभारनिराकरणं चाधिकम् । अस्यापि लोके व्यवहारः॥ यदूत्तमेति ॥ प्रत्युपकारस्ते वन्दनम् ।। नमस्कार एव प्रत्युपकार इत्यर्थः ॥

एतान्येव भगवतोदशरूपाणि सर्वपुरुषार्थसाधकानि । अत्र दृष्टान्तत्वेनमत्स्याद्यिक्तेरयं भावः। भूभारभूतासुरराजन्यहननार्थेह्यवतारः। एवं सति तैः सह युद्धं सम्भाव्यते । तच्च स्नेहातिशयेन भक्तैः सोढुमशक्यम् । अतो, रूपं चेदं पौरुषं, जन्म ते मय्यसावित्यादिना देवकीवद् ब्रह्मादयो माहात्म्यज्ञानवन्तोऽपि भक्तत्वेन भूभारहरणे प्रकारविशेषं प्रार्थयन्ति । यावत् स्वस्यैश्वर्याद्यप्राकट्येन निगूढत्वेनान्यतो वा शत्रुहननं भवति तावन्न स्वयं युद्धं कार्यमिति । तत्र प्रलयाब्धौ सत्यव्रतादिभक्ता रक्षणीयाः । एवं सति पुरुषादिरूपेण रक्षणे क्रियमाणे लोकरीत्या क्लेशमकरादिभयसम्भावनया स्नेहेन भक्तानां क्लेशः स्यादिति तदभावाय येन रूपेण जलसञ्चारः सुखावहस्तद्रूपं जगति हीनजातीयमपि मात्स्यमङ्गीकृत्य रक्षितवांस्तथाऽधुनोक्तरीत्येति प्रार्थना। अत एव स्वैश्वर्यादिविरुद्धमपि याचकत्वमङ्गीकृत्य भीमेन जरासन्धं मारितवान्न तु स्वयम् । हयग्रीवो ब्रह्मणः सत्रे प्रादुर्भूतः सन्नसुरहननवेदरक्षादिकं कृतवान् । इहापि राजसूये प्रकटो ब्राह्मणसंमाननेन मर्यादा स्थापयित्वा वेदविरुद्धवादिनं चैद्यमनायासेन मारितवान् । कच्छपस्तु, मेनेऽङ्गकण्डूयनमित्यादिवाक्यैः सुखसाधनखेनैव मन्दरं दधार । तद्वदिहाऽपि वीर्यबलाधिक्यजबाहुकण्डूशान्त्यर्थमेव युद्ध कार्यं, न तु प्रतिभटोपस्थितिमात्रतः । तदा त्वन्य एव पेरणीय इति प्रार्थना । अत एव यत्र युद्धं कृतं तत्र तथैव कृतमिति ज्ञेयं, क्रीडार्थे मृगयावत् । अत एव विक्रीडितं तज्जगदीशयोः परमिति वचनम् । यथा अमृतदानार्थमेव मन्दर-