चोत्पत्ती जगतोऽनादित्वं भज्येत । अलीकत्वं च स्यात् । यथा
तव भव आकस्मिकः, एवमेव जगतोऽपि भवेत् । अतः, अभवे
आश्रयरूपे आत्मरूपे सत्येव जीवानामुत्पत्त्यादिर्भवेत् ॥ ३८ ॥
एवं भगवतो लीलया प्रादुर्भावः । स्वरूपनिमित्ताज्ञानं वा। अन्यथा सर्वमेव जगन्न स्यादिति । आनन्दाविर्भावो भगवानिरूपितः । स एव साधनमित्याह-
मत्स्याश्वकच्छपनृसिंहवराहहंस-
राजन्यविप्रविबुधेषु कृतावतारः॥
त्वं पासि नस्त्रिभुवनं च तथाऽधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥ ३९ ॥
मत्स्याश्चेति ॥ यथा पूर्वं नवावतारा जाता एवमयमपि
दशमः । त्रयो जलजाः ३, त्रयो वनजाः३, त्रयो लोकजाः ३ ।
मत्स्याश्वकच्छपनृसिंहवराहहंसाः, राजन्यविप्रविबुधाश्च
तमोरजः सत्त्वसमानाऽऽकृतयः । अश्वो हयग्रीवः । अश्वोऽपि
जलजो, हयग्रीवोऽपि जलजः । नृसिंहः काष्ठजत्वाद्वनजः। वराह
आरण्यप्रकृतिक इति, अक्षजोऽपि बहिवायुस्थानत्वादारण्यः । राजन्यो
रघुनाथः । विप्रः परशुरामः । विबुधो वामनः । तरतमभावात्
त्रित्वम् । मत्स्यादश्व उत्तमः । अश्वादपि कूर्मः । वास्तव्यत्वात् ।
नृसिंहाद्वराहः । भूम्युद्धारकहिरण्याक्षमारकत्वात् । ततोऽपि
ज्ञानप्रदो हंसो महान् । क्षत्रियब्राह्मणदेवेषु तरतमभावः स्पष्टः ।
एभिर्नवविधैर्नवविधा अपि रक्षिताः । इदानीमेकेनैव नवविधा
रक्षणीयाः । अयमेव भगवान् तत्तज्जात्यनुकाररूपेष्ववतारं
कृत्वा पाति । अधुना ततोऽप्यधिकं विज्ञापयन्ति । त्वमेतेषु
पूर्वं कृतावतारो नोऽस्मान् त्रिभुवनं चकाराद्धर्मादिकमपि पासि।
तथा अधुना, हे ईश सर्वसामर्थ्यरूपेणावतीर्णस्तथा पूर्वोक्तत्रयं