न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे ॥
भवो निरोधः स्थितिरप्यविद्यया
कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३८ ॥
नतेऽभवस्योति ॥ते अभवस्य जन्मरहितस्य भवस्य
जन्मकारणं विनोदं विना न तर्कयामहे । विनोदो लीलादेः कालस्य
वा नोदः प्रेरणम् । कालो हि स्थिरः सर्वानेव मर्यादया यथासुखं
करोति । स जन्मना नोद्यते । अन्यथाक्रियते । विनावि
संसारनौकायां वा । अन्यथा संसारनौः पारं न गच्छेत् । अस्मिन्
अर्थे, नते नम्र शरणागते पुरुषे भवनिवारकस्य यो भवो
जन्म, तस्य कारणं विना विनोदं तर्कयामह इति सम्बन्धो
ज्ञेयः ॥ यद्वा नतो य इभो गजेन्द्रस्तस्य वम् अमृतं मोक्षो
यस्मात्तादृशस्येत्यग्रे पूर्ववत् । तथाच पशुजातीयस्यापि
नतिमात्रेण, भवनिवारकस्य भवोऽसम्भावित इति तस्य हेतुं तं
तर्कयामह इति भावः । नौकारहिता वा संसृतिस्तस्यां सत्यां
सर्वप्रेरणं तव भवस्य कारणम् । यद्यप्यत्र प्रमाणं नास्ति,
यथाऽर्थद्रष्टुराप्तस्याभावात् । अद्यापि त्वयाऽप्यनुक्तत्वात् ।
अतः स्वयमेव तर्कयामहे । वस्तुतस्तु लीलापि भवति, न
वेति सन्देह एव । ननु सर्वस्यापि जीवस्य पदंशस्य यथा
भवस्तथा ममापीति कथमभवस्येत्युच्यते? । तत्राह ॥ भवो
निरोध इति ॥ सर्वस्यापि प्राणिन उत्पत्तिस्थितिप्रलया
अविद्ययो देहायध्यासेन भवन्ति । स्वतो जीवानां जन्माभावात् ।
तदपि त्वाय सति भवति । अन्यथा निराधारे जगत्युत्पत्तिर्न स्यात् ।
जगतउत्पत्त्यादि तत्रापि त्वय्युदासीने न भवति, आनित्ये न भवति,
असमवायित्वे न भवति । आधारसमनाययोरवश्यापेक्षणात् । तव