पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
प्रश्नोत्तररत्नमालिका।

इह कुत्रावहितः स्यान्मनुजः किल राजसेवायाम् ।। ३७ ।।
प्राणादपि को रम्यः कुलधर्मः साधुसगश्च ।।
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ।। ३८ ॥
का कल्पलता लोके सच्छिाष्यायार्पिता विद्या॥
कोऽक्षयवटवृक्षः स्याद्विधिवत्सत्पात्रदत्तदान यत् ।। ३९ ।।
किं शस्त्र सर्वेषां युक्तिर्माता च का वेनुः ॥
किं नु बल यद्धैर्य को मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥
कुत्र विषं दुष्टजने किमिहाशौच भवेदृणं नृणाम् ॥
किमभयमिह वैराग्यं भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
का दुर्लभा नराणां हरिभक्तिः पातक च किं हिंसा ।।
को हि भगवत्प्रियः स्याद्योऽन्य नोद्वेजयेदनुद्विग्नः ॥ ४२ ।।
कस्मात्सिद्धिस्तपसो बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ॥
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ।। ४३ ॥
संभावितस्य मरणादाधिक किं दुर्यशो भवति ॥
लोके सुखी भवेत्को धनबान्धनमपि च किं यतश्चेष्टम् ॥ ४४ ॥
सर्वसुखानां बीज किं पुण्य दुःखमपि कुतः पापात् ।।
कस्यैश्वर्यं यः किल शंकरमाराधयेद्भक्त्या ॥ ४५ ॥
को वर्धते विनीतः को वा हीयेत यो दृप्तः ।
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥
कुत्रानृतेऽप्यपापं यच्चोक्तं धर्मरक्षार्थम् ।।
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानाम् ॥ ४७ ॥
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ॥
दैवं किं यत्सुकृत कः सुकृती लाध्यते च यः सद्भिः ॥ ४८ ॥
गृहमेधिनश्च मित्र किं भार्या को गृही च यो यजते ॥
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणाम् ।। ४९ ।।