पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
प्रश्नोत्तररत्नमालिका।

दानं प्रियवाक्सहित ज्ञानमगर्वं क्षमान्वितं शौर्यम् ॥
वित्त त्यागसमेत दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥
किं शोच्य कार्पण्य सति विभवे किं प्रशस्तमौदार्यम् ।।
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥
क' कुलकमलदिनेश. सति गुणविभवेऽपि यो नम्रः ॥
कस्य वशे जगदेतत्प्रियहितवचनस्य धर्मनिरतस्य ॥ २७ ॥
विद्वन्मनोहरा का सत्कविता बोधवनिता च ॥
क न स्पृशति विपत्ति. प्रवृद्धवचनानुवर्तिन दान्तम् ॥ २८ ॥
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।।
त्यजति च क सहसा द्विजगुरुसुरनिंदाकर च सालस्यम् || २९॥
कुत्र विधेयो वास. सज्जननिकटेऽथवा काश्याम् ॥
क. परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३० ॥
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन !!
इह भुवने क शोच्यः सत्यपि विभवे न यो दाता ॥ ३१ ॥
किं लघुताया मूल प्राकृतपुरुषेषु या याच्ञा ।।
रामादपि क. शूरः स्मरशरनिहतो न यश्चलति ॥ ३२ ॥
किमहर्निशमनुचिंत्य भगवञ्चरण न ससारः ।।
चक्षुष्मन्तोऽप्यधाः के स्युर्ये नास्तिका मनुजाः ।। ३३ ।।
क. पगुरिह प्रथितो व्रजति न यो वार्धके तीर्थम् ।।
किं तीर्थमपि च मुख्य चित्तमल यन्निवर्तयति ॥ ३४॥
किं स्मर्तव्य पुरुषैर्हरिनाम सदा न यावनी भाषा !!
को हि न वाच्यः सुधिया परदोषश्चानृत तद्वत् ॥ ३५ ॥
किं सपाय मनुर्विद्या वित्त बल यशः पुण्यम् ।। ।
क सर्वगुणविनाशी लोभ' शत्रुश्च क' काम' || ३६ ।।
का च समा परिहार्या हीना या वृद्धसचिवेन !!