पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
right
प्रश्नोत्तररत्नमालिका।

कि सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२ ॥
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ।। १३ ।।
किं मरण मूर्खत्व किं चानर्घ, यदवसरे दत्तम् ।
आमरणात्किं शल्यं प्रच्छन्नं यत्कृतं पापम् || १४ ।।
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५ ॥
काहर्निशमनुचिंत्या संसारासारता न तु प्रमदा ।
का प्रेयसी विधेया करुणा दीनेषु सज्जने मैत्री ॥ १६ ॥
कंठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुम् ।
मूर्खस्य शंकितस्य च विषादिनो वा कृतघ्नस्य ॥ १७ ॥
कः साधुः सद्वृत्तः कमघममाचक्षते त्वसद्वृत्तम् ।
केन जितं जगदेतत्सत्यतितिक्षावता पुसा ।। १८ ॥
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।।
कस्मादुद्वेगः स्यात्ससारारण्यतः सुधियः ॥ १९ ॥
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
क्व स्थातव्य न्याय्ये पथि दृष्टादृष्टलाभाढये ।। २० ।।
कोऽधो योऽकार्यरतः को बधिरो यो हितानि न शृणोति ।।
को मूको यः काले प्रियाणि वक्तु न जानाति ।। २१॥
किं दानमनाकांक्ष किं मित्र यो निवारयति पापात् ।।
कोऽलकारः शील किं वाचां मंडन सत्यम् ।। २२ ॥
विद्युद्विलसितचपल किं दुर्जनसगतिर्युवतयश्च ॥
कुलशीलनिष्प्रकपाः के कलिकालेऽपि सज्जना एव ।। २३ ॥
चिंतामणिरिव दुर्लभामिह किं कथयामि तच्चतुर्भद्रम् ।।
किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २४ ॥