पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


तद्वब्रह्मणि जीवत्वं भ्रांत्या पश्यति न स्वतः ॥ ५९
यथा मृदि घटो नाम कनके कुडलाभिधा ।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ।। ६० ॥
यथैव व्योम्नि नीलत्व यथा नीर मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥
यथैव शून्ये वेतालो गधर्वाणां पर यथा ।
यथाऽऽकाशे द्विचंद्रत्व तद्वत्सत्ये जगस्थितिः ॥ ६२ ॥
यथा तरंगकल्लोलैर्जलमेव स्फुरत्यलम् ।
पात्ररूपेण ताम्र हि ब्रह्मांडौधैस्तथाऽत्मता ॥ ६३ ॥
घटनाम्ना यथा पृथ्वी पटनाम्ना हि ततवः ।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ।। ६४ ।।
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ।। ६५ ||
कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
तथैव श्रुतियुक्तिभ्यां प्रपचब्रह्मणोरिह ।। ६६ ॥
गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् ।
वीक्ष्यमाणे प्रपचेऽपि ब्रह्मैवाभाति भासुरम् ।। ६७ ।।
सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा ।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ।। ६८ ।।
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ।
आत्मानात्मविभागोऽय मुधैव क्रियते बुधैः ।। ६९ ।।
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका |
विनिर्णीता विभूढेन देहत्वेन तथाऽऽत्मता ।। ७० ॥
घटत्वेन यथा:पृथ्वी पटत्वेनेव तंतवः ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ।। ७१ ।।.