पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

अपरोक्षानुभूतिः

श्रुत्या निवारित नून नानात्व स्वमुखेन हि ।
कथ भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्यु स गच्छति ।
इह पश्यति नानात्वं मायया वचितो नरः ॥ ४८ ।।
ब्रह्मण सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्व च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्व च तथा भवेत् ॥ ५१ ॥
स्वल्पमप्यतर कृत्वा जीवात्मपरमात्मनो ।
योऽवतिष्ठति सूढात्मा भय तस्यामिभाषितम् ॥ ५२ ॥
यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति ।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ।। ५४
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
इति निर्धारित श्रुत्या बृहदारण्यसस्थया ॥ ५५ ॥
अनुभूतोऽप्यय लोको व्यवहारक्षमोऽपि सन् ।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥
त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
अस्य द्रष्टा गुणातीतो नित्यो ह्यकिश्चिदात्मकः ।। ५८ ॥
यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् ।