पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
प्रबोधमुधाकरः ।


दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ।। १६३ ॥
बाह्याभ्यंतरपूर्णः 'परमानदार्णवे निमग्नो यः ।
चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः ॥ १६४ ॥
पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे. हरौ ।
 संविस्फारसुधार्णवे विरहिते वीचीतरगादिभिः ।
भास्वत्कोटिविकासितोचलदिगाकाशप्रकाशे परे..
 स्वानंदैकरसे निमग्नमनसा न त्व न चाहं जगत् ॥ १६५

द्विधाभक्तिः

चित्ते सत्त्वोत्पत्तौ तडिदिव बोधोदयो भवति ।
तर्ह्येव स स्थिरः स्याद्यदि चित्त शुद्धिमुपयाति ॥ १६६ ॥
शुध्यति हि नांतरात्मा कृष्णपदाभोजभक्तिमृते ।
वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥ १६७ ॥
यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।
प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥ १६८ ॥
जानन्तु तत्र बीज हरिभक्त्या ज्ञानिनो ये स्युः ।
मूर्तं चैवामूर्त द्वे एव ब्रह्मणो रूपे ॥ १६९ ॥
इत्युपनिषत्तयोर्वा द्वौ भक्तौ भगवदुपदिष्टौ ।
क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये ॥ १७० ॥
स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।
प्रारभे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ।। १७१ ।।
स्वाश्रमधर्माचरण कृष्णप्रतिमार्चनोत्सवो नित्यम् ।
विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् ।। १७२ ॥
कृष्णकथासश्रवणे महोत्सवः सत्यवादश्च ।
परयुवतौ द्रविणे वा परांपवादे पराड्मुखता ॥ १७३॥
ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।