पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
प्रबोधसुधाकरः।


स्तंभाग्रपट्टिकाया नर्तयतीहं प्रगूढतया ॥ १२८ ॥
गुडखडशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः ॥
केयूरकंकणाद्या यथैकहेम्नो भिदाश्च पृथक् ।। १२९ ॥
एव पृथक्स्वभाव पृथगाकार पृथग्वृत्ति ।।
जगदुच्चावचमुच्चैरेकेनैवात्मना चलति ॥ १३ ॥
स्कधधृतसिद्धमन्न यावन्नाश्नाति मार्गगस्तावत् ॥
स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवत ॥ १३१ ।।
मानुषमतंगमहिषश्चसूकरादिष्वनुस्यूतम् ।।
य' पश्यति जगदीश स एव भुक्तेऽद्वयानदम् ॥ १३२ ।।

कर्तृत्वभोक्तृत्वप्रकरणम् ।

यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जन' कुरुते ॥
त न करोति विवस्वान्न कारयति तद्वदात्मापि ॥ १३३ ॥
लोहे हुतभुग्व्याप्ते लोहातरताडयमानेऽपि ।।
तस्यातर्गतवह्नेः किं स्यान्निर्घातज दुःखम् ) १३५ ॥
निष्ठुरकुठारघातै. काष्ठे सछेद्यमानेऽपि ।।
अतर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ।। १३५ ।।
तनुसबधाज्जातै. सुखदुखैर्लिप्यते नात्मा ॥
ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ।। १३३ ॥
निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति ।।
ईरयति वारयति वा त दीप' किं-तथात्मापि ।। १३७ ।।
गेहांते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा ।।
दीपस्तुष्यन्यथवा खिद्यति किं तद्वदात्मापि ॥ १३८ ॥

स्वप्रकाशताप्रकरणम्।

रविचद्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः ॥
यद्यपि तथाप्यमभि' प्रकाश्यते क्वापि नैवान्मा || १३९ ॥