पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
प्रबोधसुधाकरः ।


किमितरपदार्थनिवह प्रतिबिंबोऽप्यात्मनस्तद्वत् ।। ११६ ॥
प्रतिफलितं यत्तेजः, सवितुः कांस्यादिपात्रेषु ॥
तदन्नु प्रविष्टमंतर्गृहमन्यार्थान्प्रकाशयति ।। ११७ ।।
चित्प्रतिबिंबरतद्वद्बुद्धिषु यो जीवतां प्राप्तः ॥
नेत्रादींद्रियमार्गैर्बहिरर्थान्सोऽवभासयति ।। ११८ ॥

अद्वैतप्रकरणम् ।

तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति ।।
स इदं सर्व च स्यात्तस्य हि देवाश्च नेशते भूत्या ॥ ११९ ॥
येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः ॥
अहमन्योऽसावन्यश्चेत्थ यो वेद पशुवत्सः ॥ १२० ॥
इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च ॥
ज्ञानी त्वात्मैवेय मतिर्ममेत्यत्र युक्तिरपि ।। १२१ ॥
ऋजु वक्रं वा काष्ठ हुताशदग्ध सदग्नितां याति ॥
तत्किं हस्तग्राह्य ऋजुवक्राकारसत्त्वेऽपि ।। १२२ ॥
एव य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः ।
देहीव दृश्यतेऽसौ पर त्वसौ केवलो ह्यात्मा ॥ १२३ ॥
प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा ॥
तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु ॥१२४ ॥
दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः ।
प्रतिबिंबचंचलत्वादर्कः किं चंचलो भवति ॥ १२५ ॥
स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन ॥
तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति ॥ १२६ ॥
येनोदकेन कदलीचंपकजात्यादयः प्रवर्धन्ते ।।
मूलकपलांडुलशुनास्तेनैवैते विभिन्नरसगंधाः ।। १२७ ॥
एको हि सूत्रधारः काष्टप्रकृतीरनेकशो युगपत् ॥