पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
प्रबोधसुधाकरः।


यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिंता ॥ १४ ॥
एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरंतराविशति ॥ १७५ ॥
स्मृतिसत्पुराणवाक्यैर्यथाश्नुतायां हरेर्मूतौं ।
मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ।। १७५॥
सत्य समस्तजंतुषु कृष्णस्यावस्थितेेर्ज्ञानम् ।
अद्रोहो भूतगणे ततस्तु भूतानुकपा स्यात् ॥ १७७ ॥
प्रमितयदृच्छालामै सतुष्टिर्दारपुत्रादौ ।
ममताशून्यत्वमतो निरहकारत्वमक्रोधः ।। १७८ ॥
मृदुभाषिता प्रसादो निजनिंदायों स्तुतौ समता।
सुखदुःखशीतलोष्णद्वद्वसहिष्णुत्वमापदो न भयम् ।। १७९ ॥
निद्राहारविहारेष्वनादर. संगराहित्यम् ।
वचने चानवकाश. कृष्णस्मरणेन शाश्वती'शांतिः॥१८.४
केनापि गीयमाने हरिगीते वेणुनादे वा ।
आनंदाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः ।। १८१ ।
तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।
स्थिरता याते तस्मिन्याति मदोन्मत्तदतिदशाम् ।। १८२ ॥
जंतुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः।
एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात् ॥ १८३ ।।

ध्यानविधिः

यमुनातटनिकटस्थितवृंदावनकानने महारम्ये ।।
कल्पद्रुमतलभूमौ चरण चरणोपरि स्थाप्य ॥१८॥
तिष्ठन्तं धननीलं स्वतेजसा भासयतमिह विश्वम् ।
पीतांबरपरिधानं चदनकर्पूरलिप्तसर्वांगम् ॥१८५॥
आकर्णपूर्णनेत्र कुडलयुगमंडितश्रवणम् ॥