पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
प्रबोधसुधाकरः।


सौदामिनीव नश्यति मुनिभिः संप्रेक्ष्यमाणैव ॥ १०४
माया ब्रह्मोपगताऽविद्या जीवाश्रया प्रोक्ता
चिदचिद्वृथिश्चेतस्तदक्षय ज्ञेयमा मोक्षात्
घटमठकुडवैरावृतमाकाश तत्तदावह्य भवति ॥
तद्वदविद्यावृतमिह चैतन्य जीव इत्युक्त
ननु कथमावरण स्यादज्ञान ब्रह्मणो विशुद्धस्या।।
सूर्यस्येव तमिस्र रात्रिभव स्वप्रकाशस्य ॥ १० ॥
दिनकरकिरणोत्पन्नैर्मेघैरान्छाद्यते यथा सूर्यः ।।
न खलु:दिनस्य दिनत्व तैर्विकृतैः सांद्रसघातैः ॥ १०८ ।
अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् ॥
न पर तु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९ ॥

लिंगदेहादिनिरूपणप्रकरणम् ।

स्थूलशरीरस्यातलिंगशरीर च तस्यातः ॥
कारणमस्याप्यंतस्ततो महाकारण तुर्यम् ।। ११० ॥
स्थूल निरूपित प्रागधुना सूक्ष्मादितो ब्रूमः ।।
अगुष्ठमात्र. पुरुष श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ।। १११
सूक्ष्माणि महाभूतान्यसवः पचेंद्रियाणि पचैव ।।
षोडशमतःकरण तत्सघातो हि लिंगतनु'
तत्कारण स्मृत यत्तस्यातर्वास जालम् ।।
तस्य प्रवृत्तिहेतुर्बुद्धयाश्रयमत्र तुर्यं स्यात् ।। ११३ ॥
तत्सारभूतबुद्धौ यत्प्रतिफलित तु शुद्धचैतन्यम् ॥
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ।। ११४
चरतरतरगसगात्प्रतिबिंब भास्करस्य च चल स्यात् ।।
अस्ति तथा चंचलता चैतन्ये चित्तचाचल्यात् ।। ११५
नन्वर्कप्रतिबिंबः सलिलादिषु य स चावभासयति ।।