पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
प्रबोधसुधाकरः।


 सद्रत्नं व्यजनं न्यसेच्च कलशच्छिद्राध्वनिर्गच्छत्ताम् ॥ ९ ॥
तेजोशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते
 तद्रंद्धैः कलशेन वा किमु मृदो भांडेन तैलेन वा ॥
किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
 दीपज्योतिरिहैकमेव शरण देहे तथात्मा स्थितः ॥ ९४ ॥

मायासिद्धिप्रकरणम् ।

चिन्मात्रः परमात्मा ह्यपश्यदात्मानमात्मतया ॥
अभवत्सोऽहनामा तस्मादासीद्भिदो मूलम् ॥ ९५ ॥
द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेता वै ॥
तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् || ९६ ॥
सोऽयमपीक्षांचके ततो मनुष्या अजायन्त ||
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥ ९७ ॥
चिरमानंदानुभवात्सुषुप्तिरिव काप्यवस्थाऽभूत् ॥
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८ ॥
सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः ।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९ ॥
माया तावददृश्या दृश्यं कार्य कथ जनयेत् ||
ततुभिरदृश्यरूपैः परोऽत्र दृश्यः कथ भवति ।। १०० ॥
स्वप्ने सुरतानुभवाच्छुकद्रावो यथा शुभे वसने ॥
अनृत रत प्रवोधे वसनोपहतिर्भवेत्सत्या ॥ १०१ ॥
स्वप्ने पुरुषः सत्यो योपिदसत्या तयोर्युतिश्च मृषा ॥
शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥ १०२॥
एवमदृश्या माया तत्कार्यं जगदिद दृश्यम् ||
माया तावढियं स्याद्या स्वविनाशेन हर्षदा भवति ।। १०३ ।।
रजनीवातिदुरंता न लक्ष्यतेऽत्र स्वभावोऽस्याः ॥