पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
दशश्लोकी।


 तदेकोऽवशिष्ट शिवः केवलोऽहम् ॥६॥
न शास्ता न शास्त्र न शिष्यो न शिक्षा
 न च त्व न चाह न चाय प्रपचः।
स्वरूपायवोधो विकल्पासहिष्णु-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥७॥
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
 र्न विश्वो न या तेजस. प्राज्ञको वा ।
अविद्याऽऽत्मकत्वात्त्रयाणा तुरीय-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥८॥
अपि व्यापकत्वाद्धि तत्त्वप्रयोगात्
 स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्त तदन्यत्
 तदेकोऽवशिष्ट शिवः केवलोऽहम् ॥९॥
न चैक तदन्यद् द्वितीय कुतः स्या-
 न्न वा केवलत्व न चाकेवलत्वम् ।
न शून्य न चाशून्यमद्वैतकत्वात्
 कथ सर्ववेदान्तसिद्ध ब्रवीमि ॥१०॥

इति दशश्लोकी समाप्ता ॥