पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ दशश्लोकी ॥

६४
।दशश्लोकी।

न भूमिर्न तोयं न तेजो न वायु-
 र्न खं नेद्रिय वा न तेषां समूहः ।।
अनैकातिकत्वात्सुपुप्त्येकसिद्ध-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ।। १ ।।
न वर्णा न वर्णाश्रमाचारधर्मा
 न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाह ममाध्यासहाना-
 त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २ ॥
न माता पिता वा न देवा न लोका ।
 न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
 तदेकोऽवशिष्टः शिवः केवलोऽहम् ||३॥
न साख्य न शैव न तत्पांचरात्र
 न जैन न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
 तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥४॥
न चोर्ध्वं न चाधो न चातर्न बाह्य
 न मध्य न तिर्यद् न पूर्वाऽपरा ठिक ।
वियद्व्यापकत्वादखडेकरूप-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥५॥
न शुक्ल न कृष्ण न रक्त न पीत
 न कुब्ज न पीन न ह्रस्व न दीर्घम् ।
अरूप तथा ज्योतिराकारकत्वात्