पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
स्वात्मनिरूपणम् ।


तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथाऽवगम्यन्ते ॥७५॥
तदिद कारणमेक विगतविशेष विशुद्धचिद्रूपम् ।
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ।।७६॥
कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अंकुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलै' ||७७॥
कारणमसदिति कथयन् वध्यापुत्रेण निर्वहेत्कार्यम् ।
किंच मृगतृप्णिकाभः पीत्वोदन्यां महीयसीं शमयेत् ॥७८॥
यस्मान्न सोऽयमसतो वादः सभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्व सर्वेषां भवति कारणं जगताम् ॥७९॥
जगदाकारतयाऽपि प्रथते गुरुशिष्यविग्रहतयाऽपि ।
ब्रह्माकारतयाऽपि प्रतिभातीदं परात्पर तत्त्वम् ॥८॥
सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।
तस्मादसत्यमेतन्निखिल प्रतिपादयन्ति निगमान्ताः ॥८१||
परिपकमानसाना पुरुषवराणां पुरातनैः सुकृतैः ।
ब्रह्मैवेद सर्वं जगदिति भूयः प्रबोधयत्येपः ॥८२॥
अनवगतकाचनाना भूषणधीरेव भूपणे हैमे ।
एवमविवेकभाजा जगति जनाना न तात्त्विकी धिषणा ||८३||
अहमालवनसिद्ध कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ।।८४||
अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिंन्द्रियादिबाह्येऽर्थे 11८५||
वपुरिन्द्रियादिविषये याऽहबुर्द्धिमहत्यसौ भ्रान्तिः ।
तद्बुद्धिस्तस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥८६॥
तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।