पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
स्वात्मनिरूपणम् ।


अजडवदेव जडोऽय सत्संबधाद्भवत्यहंकारः ||८७॥
तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।
यः प्रत्ययो विशुद्धः तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥८८
गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।
अहमर्थः परमात्मा तद्वद्भ्रान्त्या भवत्यहकारः ।।८९॥
दग्धृत्वादिकमयस पावकसगेन भासते यद्वत् ।
तद्वच्चेतनसंगादहमि प्रतिभान्ति कर्तृताऽऽदीनि ॥९॥
देहेंद्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।
अहमर्थ इति विदित्वा तब्द्यतिरिक्त न कल्पयेत्किंचित् ।।९१॥
यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।
तद्वदिहासति भेदेऽप्यनुभववैचित्र्यमात्मनामेषाम् ||९२॥
किभिद किमस्य रूप कथभिदमासीदमुष्य को हेतुः ।
इति न कदाऽपि विचिंत्यं चिन्त्य मायेति धीमता विश्वम् ॥९॥
दंतिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव-
जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते ॥९४
आत्मामये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
स्वयमेव केवलमसौ पश्यन्प्रसुद प्रयाति परमात्मा ॥१४॥
चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥ ९६ ॥
व्यवहारस्य दशेय विद्याऽविद्येति भेदपरिभाषा |
नास्त्येव तत्त्वदृष्टया तत्त्व ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ।।
अस्त्यन्यवदिति मत चेत्तदपि ब्रह्मैव चास्तितारूपम् ।
व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥ ९८
तत्त्वावबोधशक्त्या सुस्थितया बाधिता हि सा माया,
आदेहपातमेषा आभात्यात्माऽप्यय निजी विदुषाम् ।। ९९ ॥