पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
सदाचारानुसंधानम् ।


ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् |
भोक्ता सत्त्वगुणः शुद्धो भोगानां साधन रजः ॥५०॥
भोग्य तमोगुणः प्राहुरात्मा चैषां प्रकाशकः ।
ब्रह्माध्ययनसयुक्तो ब्रह्मचर्यारतः सदा ॥५१॥
सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ।
गृहस्थो गुणमध्यस्थः शरीर गृहमुच्यते ॥५२।।
गुणाः कुर्वन्ति कर्माणि नाह कर्तेति बुद्धिमान् ।
किमुग्रैश्च तपोभिश्च यस्य ज्ञानमय तपः ॥५३॥
हर्षामर्षविनिर्मुक्तो वानप्रस्थ' स उच्यते ।
स गृही यो गृहातीत' शरीरं गृहमुच्यते ॥५४॥
सदाचारमिम नित्यं योऽनुसदधते बुधः।
संसारसागरान्छीघ्रं स मुक्तो नात्र संशयः ॥५५॥

इति सदाचारानुसधान सपूर्णम् ॥