पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
सदाचारानुसंधानम् ।


चित्तं चिदिति जानीयात्तकाररहितं यदा ॥३७॥
तकारो विषयाध्यासो जपारागो यथा मणौ ।
ज्ञेयवस्तुपरित्यगाज्ज्ञान तिष्ठति केवलम् ॥३८॥
त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृन्छति ।
मनोमात्रमिदं सर्व तन्मनो ज्ञानमात्रकम् ॥३९॥
अज्ञानं भ्रम इत्याहुर्विज्ञान परमं पदम् ।
अज्ञानं चान्यथाज्ञानं मायामेता वदन्ति ते ॥४०॥
ईश्वर मायिनं विद्यान्मायातीत निरंजनम् ।
सदानंदे चिदाकाशे मायामेघस्तडिन्मनः ॥४१||
अहंता गजन तत्र धारासारा हि वृत्तयः ।
महामोहांधकारेऽस्मिन्देवो वर्षति लीलया ॥४२॥
तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ।
ज्ञानं दृग्दृश्ययोर्भावं विज्ञान दृश्यशून्यता ॥४३॥
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥४४॥
विज्ञान चोभयोरैक्य क्षेत्रज्ञपरमात्मनोः ।
परोक्ष शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥४५॥
आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् ।
त्वमर्थविषयं ज्ञान विज्ञानं तत्पदाश्रयम् ॥४६॥
पदयोरैक्यबोधस्तु ज्ञानविज्ञानसज्ञितम् ।
आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥४७॥
अज्ञानं चान्यथा लोके विज्ञान तन्मय जगत् ।
अन्वयव्यतिरेकाभ्यां सर्वत्रैक प्रपश्यति ॥४८॥
यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ।
अज्ञानध्वसक ज्ञानं विज्ञानं चोभयात्मकम् ॥४२॥'