पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
सदाचारानुसंधानम्।


चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके ॥
भ्रमेणैव जगत्जात रज्ज्वा सर्पभ्रमो यथा ॥ २५ ॥
तार्किकाणा तु जीवेशौ वान्यावेतौ विदुर्बुधाः ॥
लक्ष्यौ च सांख्ययोगाभ्या वेदांतैरैक्यता तयोः ॥ २६ ॥
कार्यकारणवान्याशौ जीवेशौ यौ जहच्च तौ ।।
अजहच्च तयोर्लक्ष्यौ चिदशावेकरूपिणौ ॥ २७ ॥
कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः ।।
साख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥ २८॥
अन्ये पाषडिनः सर्वे ज्ञानवार्तासुदुर्लभा ॥
एक वेदातविज्ञान स्वानुभूत्या विराजते ॥ २९ ॥
अह ममेत्यय बधो ममाह नेति मुक्तता ।
बंधमोक्षौ गुणैर्भाति गुणाः प्रकृतिसभवा. ॥३०॥.
ज्ञानमेक सदा भाति सर्वावस्थासु निर्मलम् ।
मदभाग्या न जानन्ति स्वरूप केवल बृहत् ||३१||
सकल्पसाक्षि यज्ज्ञान सर्वलोकैकजीवनम् ।
तदेवास्मीति यो वेद स मुक्तो नात्र संशय' ॥३२॥
प्रमाता च प्रमाण च प्रमेय प्रमितिस्तथा ।
यस्य भासावभासन्ते मान ज्ञानाय तस्य किम् ॥३३॥
अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते ।
अर्थज्ञान विजानाति स ण्वार्थ प्रकाशते ||३४॥
वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् !
स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मन ॥३५॥
चित्त चैतन्यमात्रेण सयोगाच्चेतना भवेत् । - -
अर्थादर्थांतरे वृत्तिर्गन्तु-चलति चातरे ॥३६॥
निराधारा निर्विकारा या, दशा सोन्मनी स्मृता।