पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
प्रौढानुभूतिः।


आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते-
 ऽनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी ॥
मिथ्यावादविचारचिंतनमहो कुर्वन्त्यदृष्टात्मका
 भ्राता एव न पारगा दृढधियस्तूष्णीं शिलावस्थिताः ॥१३॥
वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा-
 प्येव कोऽपि बिभामि संततदृशी वाङ्मानसागोचरः ।
निष्पापोऽस्म्यभयोऽस्म्यह विगतदुःशकाकलकोऽस्म्यहं
 सशान्तानुपमानशीतलमह. प्रौढप्रकाशोऽस्म्यहम् ॥ १४ ॥
योऽह पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं
 यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते ॥
भय्येव प्रलय प्रयाति निरधिष्ठानाय तस्मै सदा
 सत्यानदचिदात्मकाय विपुलप्रज्ञाय मह्य नमः ॥ १५ ॥
सत्ताचित्सुखरूपमस्ति सतत नाह च न त्वं मृषा
 नेद वापि जगत्प्रदृष्टमखिल नास्तीति जानीहि भो ॥
यत्प्रोक्त करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं
 श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते सशयः ।। १६ ॥
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्वियं
 दातव्या न तु मोहदुग्धकाधिये दुष्टांतरगाय च ।
येय रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वय
 सा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी ॥ १७ ॥

इति प्रौढानुभूतिः समाप्ता"

---