पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ।
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने
का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधैः ।।
सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिन्जनः
संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥७॥
१. नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शांतोऽस्म्यह
नित्यानदमयोऽस्मि निर्गतमहामोहांधकारोऽस्म्यहम् ॥
विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभं
मुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम् ॥ ८ ॥
'स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं
मिथ्येत्येव विहाय सच्चिदमलस्वांतैकरूपोऽस्म्यहम् ।।
यद्वा वेद्यमशेषमेतदनिश मद्रूपमेवेत्यपि
ज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम् ॥ ९ ॥
गंतव्यं किमिहास्ति सर्वपरिपूर्णरयाप्यखंडाकृतेः
कर्तव्य किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे ।।
निर्द्वैतस्य न हेयमन्यदपि वा नोवाप्युपेयांतरं
शांतोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मल. ॥ १०॥
किं नः प्राप्तमितः पुरा किमधुना लब्ध विचारादिना
यस्मात्तत्सुखरूपमेव सतत जाज्वल्यमानोऽस्म्यहम् ।।
। किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिक
द्वैताद्वैतविवर्जिते समरसे मौन पर संमतम् ॥ ११ ॥
श्रोतव्य च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे ।
मतव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः ॥
ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मे
सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ १२ ॥