पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


गंगापदं यथा स्वार्थ त्यक्त्वा लक्षयते तटम् |
तत्पदं त्वपद वापि त्यक्त्वा स्वार्थ यथाखिलम् || ७४० ॥
तदर्थं वा त्वमर्थ वा यदि लक्षयति स्वयम् ।
तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ।।
न शंकनीयमित्यार्यैज्ञातार्थे न हि लक्षणा ।
तत्पदं त्वंपदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥
तदर्थे च कथ तत्र सप्रवर्तेत लक्षणा ।
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥
अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।
गुणस्य गमनं लोके विरुद्ध द्रव्यमतरा ॥ ७४४ ॥
अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः ।
लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ।।
वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके ।
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ।। ७४६ ॥
एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् ।
न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥
तत्पद त्वपद चापि वकीयार्थविरोधिनम् ।
अश सम्यक्परित्यज्य स्वाविरुद्धाशसयुतम् ॥ ७४८ ॥
तदर्थं वा त्वमर्थं वा सम्यन्लक्षयतः स्वयम् ।
भागलक्षणया साध्य किमस्तीति न शक्यताम || ७४९ ॥
अविरुद्धं पदार्थान्तराश स्वाश च तत्कथम् ।
एक पद लक्षणया सलक्षयितुमर्हति ॥ ७५० ॥
पदातरेण सिद्धाया पदार्थप्रमितौ स्वतः ।
तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ।। ७५१ ॥
तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा ।