पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसग्रहः । १९२ अयथार्थतया सोऽयं वाक्यार्थों न मतः श्रुतेः ।। ७२७ ॥ अखडैकरसत्वेन वाक्यार्थः श्रुतिसमतः । स्थूलसूक्ष्मप्रपचस्य सन्मात्रत्व पुनः पुनः ॥ ७२८ ॥ दयित्वा सुषुप्तौ तब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्व प्रदर्शयितुमिच्छया ॥ ७२९ ॥ ऐतदात्म्यमिद सर्वमित्युक्त्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्व ब्रह्मणोऽद्वैतसिद्धये ॥ ७३० ।। सति प्रपचे जीवे वा द्वैतत्व ब्रह्मणः कुतः । अतस्तयोरखडत्वमेकत्व श्रुतिसमतम् ।। ७३१ ॥ विरुद्धाशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धाशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ।। लक्षणा ह्युपगतव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥ सबधानुपपत्त्या च लक्षणेति जगुर्बुधाः । गंगायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गंगाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥ सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गंगासंबधवत्तीरे लक्षणा सप्रवर्तते ।। ७३६ ।। तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥ विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥ वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते । नारिकेलफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥ १३