पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


वाक्यार्थसत्त्वाखडैकरसतासिद्धये मता ॥ ७५२ ॥
भाग विरुद्ध सत्यज्याविरोधो लक्ष्यते यदा ।
सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥
सोऽय देवदत्त इति वाक्य वाक्यार्थ एव वा ।
देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥
देशकालादिवैशिष्ट्य विरुद्धाश निरस्य च ।
अविरुद्ध देवदत्तदेहमात्र स्वलक्षणम् ॥ ७५५ ॥ -
भागलक्षणया सम्यग्लक्षयत्यनया यथा ।
तथा तत्त्वमसीत्यत्र वाक्य वाक्यार्थ एव वा ॥ ७५६ ॥
परोक्षत्वापरोक्षत्वादिविशिष्टचित्तोर्द्वयोः ।
एकत्वरूपवाक्यार्थविरुद्धाशमुपस्थितम् ।। ७५७ ॥
परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् ।
बुद्ध्यादिस्थूलपर्यंतमाविद्यकमनात्मकम् ॥ ७५८ ॥
परित्यज्य विरुद्धाशं शुद्धचैतन्यलक्षणम् ।
वस्तु केवलसन्मात्र निर्विकल्प निरजनम् ॥ ७५९ ।।
लक्षयत्यनया सम्यग्भागलक्षणया ततः।
सर्वोपाधिविनिर्मुक्त सच्चिदानदमद्वयम् ।। ७६० ॥
निर्विशेष निराभासमतादशमनीदृशम् ।
आनिर्देश्यमनायत्तमनत शातमन्युतम् ।
अप्रतर्क्यमविज्ञेय निर्गुण ब्रह्म शिष्यते ॥ ७६१ ॥
पाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या।
पाधिवैशिष्टय उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥७६२॥
तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्व च विलक्षणत्वम् ।
भ्रांत्या कृत सर्वमिद मृपैव स्वप्नार्थवज्जाग्रति नैव सत्यम् ।।७६३॥
निद्रासूतशररिधर्मसुखदुःखादिप्रपचोऽपि वा