पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" 1 सर्ववेदान्तसिद्धान्तसारमंग्रहः। न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा- द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१ ॥ अन्यथा विपरीत स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥ कथमसत सजायतेति श्रुत्या निषिध्यते तस्मात् । असतः सज्जनन नो घटते मिथ्यैव शून्यशब्दार्थः ॥५९३॥ अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथ सिध्यति शून्यत्व तस्य भ्रान्तशिरोमणे ।। ५९४ ॥ सुषुप्तौ शून्यमेवेति केन पुसा तवेरितम् ।। हेतुनानुमित केन कथं ज्ञान त्वयोच्यताम् ।। ५९५ ॥ इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपक लिंग वक्ता वा नास्ति कश्चन | सुषुप्तिस्थितशून्यस्य बोद्धा को न्वात्मनः परः ॥ ५९६ ॥ - स्वेनानुभूत स्वयमेव वक्ति स्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवेक्ष्य मूढः स्वस्यापि शून्यत्वमय ब्रवीति ॥ ५९७॥ अवेद्यमानः स्वयमन्यलोकैः सौषुप्तिक धर्ममवैति साक्षात् । बुद्ध्याद्यभावस्य च योऽत्र बोद्धा स एप आत्मा खल निर्विकारः॥ यस्येद सकल विभाति महसा तस्य स्वयज्योतिषः सूर्यस्येव किमस्ति भासकभिह प्रज्ञादि सर्वं जडम् । न ह्यर्कस्य विभासक क्षितितले दृष्ट तथैवात्मनो नान्यः कोऽप्यनुमासकोऽनुभविता नातः परः कश्चन ॥५९९॥ येनानुभूयते सर्व जाग्रत्स्वप्नसुषुप्तिपु । विज्ञातारमिम को नु कथ वेदितुमर्हति ॥ ६०० ॥ सर्वस्य दाहको वह्निबर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१॥