पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० सर्ववेदान्तसिद्धान्तसारसंग्रहः । - - शिष्यः- सुषुप्तिकाले सकले विलीने शून्य विना नान्यदिहोपलभ्यते । शून्य त्वनात्मा न ततः परः कोऽध्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥५८१।। यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् | किंलक्षणोऽसौ स कथ न बाध्यते प्रबाध्यमानेष्वहमादिषु स्वयम्॥५८२।। एतत्सशयजातं मे हृदयग्रथिलक्षणम् । छिंद्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३ ।। श्रीगुरु:- अतिसूक्ष्मतरः प्रश्नस्तवाय सदृशो मतः । सूक्ष्मार्थदर्शन सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ ॥ शृणु वक्ष्यामि सकलं यद्यत्पृष्ट त्वयाधुना । रहस्य परम सूक्ष्म ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ।। बुद्धयादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवद्वीजे तिष्टत्यविकृतात्मना ॥ ५८६ ॥ तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । क्वचिदंकुररूपेण कचिद्बीजात्मना वटः ! कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ।। अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुप्त्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८ ॥ इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शन शून्यमिति प्राहुरतद्विदः ।। ५८९ ॥ नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदति नरशृंगात्किं खपुष्पारिक भविष्यति ।। ५९० ।। प्रभवति न हि कुंभोऽविद्यमानो मृदश्चे- त्प्रभवतु सिकताया वाथवा वारिणो वा ।