पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्नसारसंग्रहः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥ ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९ ॥ सामानाधिकरण्यं वा सयोगो वा समाश्रयः। त्तमः प्रकाशवज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥ अज्ञानमपि विज्ञान बुद्धिर्वापि च तद्गुणाः । सुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वापरम् ॥ ५७१ ॥ मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमण्यासमित्यनु ।। ५७२ ।। सुप्तोत्थित्तजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥ वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् ।' निरुच्यते यतस्तस्मान्छून्यस्यैवात्मता मता ॥ ५७४ ॥ असन्नेव घट पूर्वं जायमानः प्रदृश्यते । न हि कुभः पुरैवातः स्थित्वोदेति बहिर्मुखः ।। ५७५ ।। यत्तस्मादसतः सर्वं सदिद समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्व समर्हति ॥ ५७६ ।। इत्येव पडितमन्यै परस्परविरोधिभि । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभि ।। ५७७॥ निर्णीतमतजातानि खडितान्येव पडितैः । श्रुतिभिश्चाप्यनुभवैर्वाधकै प्रतिवादिनाम् ।। ५७८ ॥ यतरतस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः | सुसाधितमनात्मत्व श्रुतियुक्त्यनुभूतिभिः ।। ५७९ ।। न हि प्रमाणातरबाधितस्य याथार्थ्यमगीक्रियते महद्भिः। पुत्रादिशून्यान्तमनास्मतत्त्वामित्येव विस्पष्टमत सुजातम् ॥५८०॥ तत.