पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ सर्ववेदान्तसिद्धान्तसारसंग्रहः। उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। उपलब्ध्यंतराभावान्नायमात्मोपलभ्यते ॥ ६०२॥ बुद्ध्यादिवेद्यविलयादयमेक एव सुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षी भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥ सुषुप्तावात्मसद्भावे प्रमाण पंडितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमावालवृद्धसंमतम् ॥ ६०४ ।। प्रत्यभिज्ञायमानत्वाल्लिंगमात्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्सामित्ययम् ।। ६०५ ॥ पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ।। ६०६ ॥ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वमानपेक्षापि च तत्सुषुप्तम् । इत्यात्मसद्भाव उदीर्यतेऽत्र श्रुत्यापि तस्माच्छुतिरत्र मानम् ।। ६०५ अकामयितृता स्वमाद्दर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्व प्रतीयते ।। ६०८।। एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानंदलक्षणः ॥ ६०९ ।। सत्त्वचित्त्वानंदतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्यवाध्यत्वं सत्यं नित्यस्वरूपत || ६१० ।। शुद्धचैतन्यरूपत्व चित्त्व ज्ञानस्वरूपतः । अखडसुखरूपत्वादानदत्वमितीर्यते ।। ६११ ॥ अनुस्यूतात्मनः सत्ता जाग्रत्स्वानमुपुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ।। ६१२ ।। सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । -