पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यथा तथाकाशवाय्बोर्नान्यादेधर्म ईक्ष्यते ॥ ४०४ ।। अतोऽप्रामाणिकमिति न किचिदपि चित्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिपु ।। ४०५ ।। तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।। तथा नभस्वतो धर्मोऽप्यन्यादावुपलभ्यते ॥ ४०६ ॥ न तथा विद्यते व्याप्तिवह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ।। ४०७ ।। कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्य बुधैः पचीकृतेरपि ॥ ४०८ ।। अनेनोद्भूतगुणक भूत वक्ष्येऽवधारय । शब्दैकगुणमाकाश शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ।। तेजःशब्दरपर्शरूपैर्गुणवत्कारण क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥ एतैश्चतुर्भिर्गधेन सह पचगुणा मही । आकाशाशतया श्रोत्र शब्द गृह्णाति तद्गुणम् ॥ ४११ ॥ त्वङ्मारुताशकतया स्पर्श गृह्णाति तद्गुणम् । तेजोशकतया चक्षू रूप गृह्णाति तद्गुणम् ॥ ४१२ ॥ अबंशकतया जिह्वा रस गृह्णाति तद्गुणम् । भूम्यशकतया घ्राण गध गृह्णाति तद्गुणम् ॥ ४१३ ॥ करोति खाशकतया वाक्शब्दोच्चारणक्रियाम् । वाय्वशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥ तेजोशकतया पाणी वह्नयाद्यर्चनतत्परौ । जलाशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥ भूम्यशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवत दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥