पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

,,१६४ सर्ववेदान्तसिद्धान्तसारसंग्रहः। स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वादपुरुच्यते ॥ ३९२ ॥ स्वप्ने जागरकालीनवासनापरिकल्पितान् | तैजसो विषयान्भुक्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥ समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्यैकत्वे कुतो भिदा || ३९४ ।। द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥ एव सूक्ष्मप्रपचस्य प्रकारः शास्त्रसमतः । अथ स्थूलप्रपचस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । पंचीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ । खादीनां भूतमेकैक सममेव द्विधा द्विधा । विभज्य भागं तत्राद्य त्यक्त्वा भागं द्वितीयकम् ।। ३९८ चतुर्धा सुविभज्याथ तमेकैक विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमतरा ॥ ३९९ ॥ ततो व्योमादिभूताना भागाः पंच भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ।। संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पचीकरणस्याप्रामाण्यं न शक्यताम् ॥ ४०१ ॥ उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः । पचानामपि भूतानां श्रूयतेऽन्यत्र सभवः ॥ ४०२ ॥ ततः प्रामाणिक पंचीकरण मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥ आकाशवाय्वोर्धर्मस्तु वह्नयादावुपलभ्यते ।