पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम् ।
व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ।।
स्वरूपाच्छादकत्वेनाप्यानदप्रचुरत्वतः ।
कारण वपुरानदमयः कोश इतीर्यते ॥ ३२३ ॥
अस्यावस्था सुषुप्तिः स्याद्यत्रानदः प्रकृष्यते ।
एषोऽह सुखमस्वाप्स न तु किंचिदवेदिषम् ॥ ३२४ ॥
इत्यानदसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते ।
समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥
अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥
सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।
एकीभावे तरगान्ध्योः को भेदः प्रतिबिंबयोः ॥ ३२७ ॥
अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।
आधार शुद्धचैतन्य यत्तत्तुर्यमितीर्यते ॥ ३२८ ।।
एतदेवाविविक्त सदुपाधिभ्या च तद्गुणैः ।
महावाक्यस्य वान्यार्थो विविक्त लक्ष्य इष्यते ॥ ३२९ ॥
अनतशक्तिसंपन्नो मायोपाधिक ईश्वरः ।
ईक्षामात्रेण सृजति विश्वमेतञ्चराचरम् ।। ३३० ॥
अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः ।
स्वयमेव कथं सर्वं सृजतीति न शक्यताम् ॥ ३३१ ॥
निमित्तमप्युपादान स्वयमेव भवन्प्रभुः ।
चराचरात्मक विश्व सृजत्यवति लुपति || ३३२ ॥
स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।
उपादान ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ।।
यथालूता निमित्त च स्वप्रधानतया भवेत् |