पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥
मायोपहितचैतन्य साभासं सत्त्ववृहितम् ।
सर्वज्ञत्वादिगुणक सृष्टिस्थित्यतकारणम् ।। ३१० ॥
अव्याकृत तदव्यतमीश इत्यपि गीयते ।
सर्वशक्तिगुणोपेत सर्वज्ञानावभासकः ॥ ३११ ॥
स्वतत्रः सत्यसंकल्पः सत्यकामः स ईश्वरः ।
तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥
सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः ।
कारण वपुरित्याहुः समष्टिं सत्त्ववृहितम् ॥ ३१३ ॥
आनदप्रचुरत्वेन साधकत्वेन कोशवत् ।
सैषानढमय कोश इतीशरय निगद्यते ॥ ३१४ ॥
सर्वोपरमहेतुत्वात्सुपुप्तिस्थानमिष्यते ।
प्राकृत प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥
अज्ञान व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते ।
अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणा ॥ ३१६ ॥
वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता।
यथा तथैवाज्ञानस्य व्यष्टित स्यादनेकता॥ ३१७ ॥
व्यष्टिर्मलिनसत्त्वैपा रजसा तमसा युता।
ततो निकृष्टा भवति योपाधि प्रत्यगात्मनः ॥ ३१८।।
चैतन्य व्यष्ट्यवच्छिन्न प्रत्यगात्मेति गीयते ।
साभास व्यष्ट्युपहित सत्तादात्म्येन तद्गुणैः ।। ३१९ ॥
अभिभूत स एवात्मा जीव इत्यभिधीयते ।
किंचिज्ज्ञत्वानीश्वरत्वससारित्वादिधर्मवान् ।। ३२० ॥
अस्य व्यष्टिरहकारकारणत्वेन कारणम् ।
वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥