पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


स्वशरीरप्रधानत्वेनोपादान तथेश्वरः ॥ ३३४॥
तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः ।
अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥
वायोरग्निस्तथैवाग्नेरापोऽद्भयः पृथिवी क्रमात् ।
शक्तेस्तम प्रधानत्व तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥
आरभन्ते कार्यगुणान्ये कारणगुणा हि ते।
एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ।। ३३७ ।।
एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।
स्थूलान्यपि च भूतानि चान्योन्याशाविमेलनात् ॥ ३३८॥
अपचीकृतभूतेभ्यो जात सप्तदशागकम् ।
ससारकारण लिंगमात्मनो भोगसाधनम् ।। ३३९ ॥
श्रोत्रादिपचक चैव वागादीना च पचकम् ।
प्राणादिपचक बुद्धिमनसी लिंगमुच्यते ॥ ३४० ॥
श्रोत्रत्वक्चक्षुजिह्वाघ्राणानि पच जातानि ।
आकाशादीना सत्त्वाशेभ्यो धींद्रियाण्यनुक्रमतः ॥ ३४१ ॥
आकाशादिगता पच सात्त्विकाशाः परस्परम् ।
मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥
प्रकाशकत्वादेतेपा सात्त्विकाशत्वमिष्यते ।
प्रकाशकत्व सत्त्वस्य स्वच्छत्वेन यतस्तत || ३४३ ॥
तदतःकरण वृत्तिभेदेन स्याच्चतुर्विधम् ।
मनो बुद्धिरहकारचित्त चेति तदुच्यते ॥ ३४४ ॥
सकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।
अभिमानादहकारश्चित्तमर्थस्य चिंतनात् ॥ ३४५॥
मनस्यपि च बुद्धौ च चित्ताहकारयोः क्रमात् ।
अतीवोऽत्र बोद्धव्यो लिंगलक्षणसिद्धये ॥ ३४६ ॥